सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः १८ – वैराग्यम्

आवर्तः १८ – वैराग्यम्

दोषदृष्ट्या आब्रह्मलोकाद्विपरिवर्तमानेषु भोगेष्वनादररूपोपेक्षैव वैराग्यम्१ इत्युच्यते ब्रह्मपारगैः।

ग्रन्थकारटिप्पणी

१. वैराग्यं नाम – सर्वविषयतित्याजयिषा, इच्छासामान्याभावो वा। (१) यतमानं, (२) व्यतिरेकः, (३) एकेन्द्रियं, (४) वशीकरणं चेति तच्चतुर्विधम्।

 (१) यतमानं नाम मन्दविवेकः।
 (२) व्यतिरेको नाम – नकुलो यथा नकुललतामाश्रित्य सर्पेण युद्ध्यते तथा सत्सङ्गेन दुर्गुणपरिहारे सद्गुणसंपादने चोत्साहसंपत्तिः।
 (३) एकेन्द्रियं नाम – विषयेभ्यः इन्द्रियनिग्रह एव।
 (४) वशीकरणं नाम सर्वतो मनोनिग्रह एव। तदपि त्रिविधम् – (१) मन्दं, (२) तीव्रं, (३) तीव्रतरं चेति।
  (४.१) पुत्रवित्तकलत्रादिहानिकालिकवैराग्योपेतचित्तवृत्तिः मन्दम्।
  (४.२) ऐहिकपुत्रादिविषयोपभोगजसुखेऽस्पृहा तीव्रम्।
  (४.३) सातिशयत्वपुनरावृत्त्याद्यनेकदोषावमर्शेन लोकान्तरभोगेष्वखिलेष्वपीच्छानुदयः तीव्रतरम्।
तत्रापरोक्षज्ञानान्तरङ्गसाधनं तु तीव्रतरवशीकरणाख्यवैराग्यमेव। अतोऽतिप्रयत्नेन संपादनीयं तन्मुमुक्षुभिः।

विचारलहरी
  • व्यतिरेके उदाहरणम् – नकुलः सर्पेण दष्टः काञ्चिदौषधलतां सेवयित्वा पुनरपि युद्धाय सन्नद्धो भवति। एवमेव विषयानन्देन दष्टः पुनरपि सत्सङ्गेन व्यतिरेकवैराग्यं संपाद्यते। अयं वेदान्तिनां समयः।
  • एकेन्द्रियं नाम दम एव (बाह्येन्द्रियनिग्रहः) ।
  • रागस्य कारणम् – गुणदृष्टिः, वैराग्यस्य कारणम् – दोषदृष्टिः ।