विचारसागरः — प्रथमस्तरङ्गः — आवर्तः १७ – नित्यानित्यवस्तुविवेकः
मुखपृष्ठम् · ⬆ प्रथमस्तरङ्गः · ← · →
आवर्तः १७ – नित्यानित्यवस्तुविवेकः¶
नित्यानित्यवस्तुविवेकः – चिन्मात्र आत्मा नित्यः (सत्यः), नाशाप्रतियोगी, क्रियाशून्यः।
तद्विलक्षणोऽनात्मा तु दृश्यः प्रपञ्चो नाशप्रतियोगी, अनित्यः (असत्यः), क्रियासहितश्चेति विवेचनमेव विवेकः२।
उत्तरेषां त्रयाणामपि साधनानामयं हेतुः, एतत्स्थित्यधीनोत्पत्तिकत्वाद्वैराग्यादीनां त्रयाणाम्। अतो निमित्ताभावे नैमित्तिकाभावादवश्यमेवादौ विवेकः संपादनीयः।
ग्रन्थकारटिप्पणी
२. हंसस्य नीरक्षीरविवेचनवत् आत्मानात्मनोः दृढतरवेदान्तार्थविचारेण स्वरूपविवेचनं विवेकः। ईदृशविवेकेन जगन्मिथ्यात्वविषयकपरोक्षज्ञानमात्रं जायते, नापरोक्षज्ञानम्। तस्मात् साधनान्तरवतापि मुमुक्षुणा भाव्यम्।
ननु वादिविजिगीषूणामपि पण्डितानां "आत्मा नित्यः, ततोऽन्यो देहादिप्रपञ्चरूपानात्माऽनित्यः" इति भेदज्ञानमस्ति। कस्मात् तद्भेदज्ञानं तेषां वैराग्यादित्रयमुत्तरं साधनजातं न जनयतीति चेन्न।
तेषां शास्त्राभ्यासवशाद्विवेके सत्यपि, निष्कामकर्मोपासनासाध्यचित्तशुद्ध्यभावेन मलिनविक्षिप्तान्तःकरणत्वात्। यथोषरभूमौ कदलीवृक्षो न प्ररोहति उर्वरावनौ तूत्तरोत्तरमभिवर्धते, तथा शुद्धान्तःकरणे मलविक्षेपाभावाद्विवेको वैराग्यादिसाधनान्तराणि जनयेत्, नान्यथा। तस्मान्मुमुक्षुभिश्चित्तशुद्धिपूर्वकं विवेकादि संपादनीयम्।