सामग्रीं त्यजन्तु

विवेकचूडामणिः — निदिध्यासनम् — अधिष्ठाननिरूपणम्

अधिष्ठाननिरूपणम्

अयोऽग्नियोगादिव सत्समन्वयान्मात्रादिरूपेण विजृम्भते धीः ।
तत्कार्यमेव त्रितयं यतो मृषा दृष्टं भ्रमस्वप्नमनोरथेषु ॥३४९॥

ततो विकाराः प्रकृतेरहंमुखा देहावसाना विषयाश्च सर्वे ।
क्षणेऽन्यथाभावितया ह्यमीषामसत्त्वमात्मा तु कदापि नान्यथा ॥३५०॥

नित्याद्वयाखण्डचिदेकरूपो बुद्ध्यादिसाक्षी सदसद्विलक्षणः ।
अहम्पदप्रत्ययलक्षितार्थः प्रत्यक् सदानन्दघनः परात्मा ॥३५१॥

इत्थं विपश्चित्सदसद्विभज्य निश्चित्य तत्त्वं निजबोधदृष्ट्या ।
ज्ञात्वा स्वमात्मानमखण्डबोधं तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥३५२॥

अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा ।
समाधिनाविकल्पेन यदाद्वैतात्मदर्शनम् ॥३५३॥