सामग्रीं त्यजन्तु

विवेकचूडामणिः — प्रश्नोत्तराणि — अनात्मनिरूपणम्

अनात्मनिरूपणम्

देहेन्द्रियप्राणमनोऽहमादयः सर्वे विकारा विषयाः सुखादयः ।
व्योमादिभूतान्यखिलं न विश्वमव्यक्तपर्यन्तमिदं ह्यनात्मा ॥१२२॥

माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् ।
असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् ॥१२३॥