सामग्रीं त्यजन्तु

सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — समाधिनिरूपणम् — निर्विकल्पसमाधिः

निर्विकल्पसमाधिः

दृश्यस्यापि च साक्षित्वात्समुल्लेखनमात्मनि ।
निवर्तकमनोवस्था निर्विकल्प इतीर्यते ॥८७३॥

सविकल्पसमाधिं यो दीर्घकालं निरन्तरम् ।
सत्कारपूर्वकं कुर्यान्निर्विकल्पोऽस्य सिध्यति ॥८७४॥

निर्विकल्पकसमाधिनिष्ठया तिष्ठतो भवति नित्यता ध्रुवम् ।
उद्भवाद्यपगतिर्निरर्गला नित्यनिश्चलनिरन्तनिर्वृतिः ॥८७५॥

विद्वानहमिदमिति वा किञ्चिद्बाह्याभ्यन्तरवेदनशून्यः ।
स्वानन्दामृतसिन्धुनिमग्नस्तूष्णीमास्ते कश्चिदनन्यः ॥८७६॥

निर्विकल्पं परं ब्रह्म यत्तस्मिन्नेव निष्ठिताः ।
एते धन्या एव मुक्ता जीवन्तोऽपि बहिर्दृशाम् ॥८७७॥