सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — समाधिनिरूपणम् — निर्विकल्पकसमाधिः
मुखपृष्ठम् · ⬆ समाधिनिरूपणम् · ← · →
निर्विकल्पकसमाधिः¶
ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा ।
मनसो निर्विकल्पः स्यात्समाधिर्योगसंज्ञितः ॥८२३॥
जले निक्षिप्तलवणं जलमात्रतया स्थितम् ।
पृथङ् न भाति किं त्वम्भ एकमेवावभासते ॥८२४॥
यथा तथैव सा वृत्तिर्ब्रह्ममात्रतया स्थिता ।
पृथङ् न भाति ब्रह्मैवाद्वितीयमवभासते ॥८२५॥
ज्ञात्रादिकल्पनाभावान्मतोऽयं निर्विकल्पकः ।
वृत्तेः सद्भावबाधाभ्यामुभयोर्भेद इष्यते ॥८२६॥
समाधिसुप्त्योर्ध्यानं चाज्ञानं सुप्त्यां तु नेष्यते ।
सविकल्पो निर्विकल्पः समाधी द्वाविमौ हृदि ॥८२७॥
मुमुक्षोर्यत्नतः कार्यौ विपरीतनिवृत्तये ।
कृतेऽस्मिन्विपरीताया भावनाया निवर्तनम् ॥८२८॥