सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — अध्यारोपः, ईश्वरः, प्रत्यगात्मा, अज्ञानम्, अनात्मा — ब्रह्माण्डसृष्टिः
ब्रह्माण्डसृष्टिः¶
आत्मानात्मविवेकं स्फुटतरमग्रे निवेदयिष्यामः ।
इममाकर्णय विद्वन् जगदुत्पत्तिप्रकारमावृत्त्या ॥४३०॥
पञ्चीकृतेभ्यः खादिभ्यो भूतेभ्यस्त्वीक्षयेशितुः ।
समुत्पन्नमिदं स्थूलं ब्रह्माण्डं सचराचरम् ॥४३१॥
व्रीह्याद्योषधयः सर्वा वायुतेजोम्बुभूमयः ।
सर्वेषामप्यभूदन्नं चतुर्विधशरीरिणाम् ॥४३२॥
केचिन्मारुतभोजनाः खलु परे चन्द्रार्कतेजोऽशनाः केचित्तोयकणाशिनोऽपरिमिताः केचित्तु मृद्भक्षकाः ।
केचित्पर्णशिलातृणादनपराः केचित्तु मांसाशिनः केचिद्व्रीहियवान्नभोजनपरा जीवन्त्यमी जन्तवः ॥४३३॥