सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — अध्यारोपः, ईश्वरः, प्रत्यगात्मा, अज्ञानम्, अनात्मा — चित्तप्रसादः
चित्तप्रसादः¶
यमेषु निरतो यस्तु नियमेषु च यत्नतः ।
विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥३६३॥
आसुरीं सम्पदं त्यक्त्वा भजेद्यो दैवसम्पदम् ।
मोक्षैककाङ्क्षया नित्यं तस्य चित्तं प्रसीदति ॥३६४॥
परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः ।
नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥३६५॥
आत्मवत्सर्वभूतेषु यः समत्वेन पश्यति ।
सुखं दुःखं विवेकेन तस्य चित्तं प्रसीदति ॥३६६॥
अत्यन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि ।
यो भजत्यनिशं क्षान्तस्तस्य चित्तं प्रसीदति ॥३६७॥
शिष्टान्नमीशार्चनमार्यसेवां तीर्थाटनं स्वाश्रमधर्मनिष्ठाम् ।
यमानुषक्तिं नियमानुवृत्तिं चित्तप्रसादाय वदन्ति तज्ज्ञाः ॥३६८॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनाम् ।
पूतिपर्युषितादीनां त्यागः सत्त्वाय कल्पते ॥३६९॥
श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः ।
अनुवृत्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥३७०॥
यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम् ।
तस्य मित्रं जगत्सर्वं तस्य मुक्तिः करस्थिता ॥३७१॥
हितपरिमितभोजी नित्यमेकान्तसेवी सकृदुचितहितोक्तिः स्वल्पनिद्राविहारः ।
अनुनियमनशीलो यो भजत्युक्तकाले स लभत इह शीघ्रं साधु चित्तप्रसादम् ॥३७२॥
चित्तप्रसादेन विनावगन्तुं बन्धं न शक्नोति परात्मतत्त्वम् ।
तत्त्वावगत्या तु विना विमुक्तिर्न सिध्यति ब्रह्मसहस्रकोटिषु ॥३७३॥
मनःप्रमादः पुरुषस्य बन्धो मनःप्रसादो भवबन्धमुक्तिः ।
मनःप्रसादाधिगमाय तस्मान्मनोनिरासं विदधीत विद्वान् ॥३७४॥