सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — अध्यारोपः, ईश्वरः, प्रत्यगात्मा, अज्ञानम्, अनात्मा — विज्ञानमयकोशः
विज्ञानमयकोशः¶
विज्ञानमयकोशः स्याद्बुद्धिर्ज्ञानेन्द्रियैः सह ।
विज्ञानप्रचुरत्वेनाप्याच्छादकतयात्मनः ॥३५०॥
विज्ञानमयकोशोऽयमिति विद्वद्भिरुच्यते ।
अयं महानहङ्कारवृत्तिमान्कर्तृलक्षणः ॥३५१॥
अहं ममेत्येव सदाभिमानं देहेन्द्रियादौ कुरुते गृहादौ ।
जीवाभिमानः पुरुषोऽयमेव कर्ता च भोक्ता च सुखी च दुःखी ॥३५२॥
स्ववासनाप्रेरित एव नित्यं करोति कर्मोभयलक्षणं च ।
भुङ्क्ते तदुत्पन्नफलं विशिष्टं सुखं च दुःखं च परत्र चात्र ॥३५३॥
नानायोनिसहस्रेषु जायमानो मुहुर्मुहुः ।
म्रियमाणो भ्रमत्येष जीवः संसारमण्डले ॥३५४॥