सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — साधनचतुष्टयम् — धनदोषनिरूपणम्
मुखपृष्ठम् · ⬆ साधनचतुष्टयम् · ← · →
धनदोषनिरूपणम्¶
धनं भयनिबन्धनं सततदुःखसंवर्धनं प्रचण्डतरकर्दनं स्फुटितबन्धुसंवर्धनम् ।
विशिष्टगुणबाधनं कृपणधीसमाराधनं न मुक्तिगतिसाधनं भवति नापि हृच्छोधनम् ॥७०॥
राज्ञो भयं चोरभयं प्रमादाद्भयं तथा ज्ञातिभयं च वस्तुतः ।
धनं भयग्रस्तमनर्थमूलं यतः सतां नैव सुखाय कल्पते ॥७१॥
आर्जने रक्षणे दाने व्यये वापि च वस्तुतः ।
दुःखमेव सदा नॄणां न धनं सुखसाधनम् ॥७२॥
सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते ।
विवेको लुप्यते लोभात्तस्मिंल्लुप्ते विनश्यति ॥७३॥
दहत्यलाभे निःस्वत्वं लाभे लोभो दहत्यमुम् ।
तस्मात्सन्तापकं वित्तं कस्य सौख्यं प्रयच्छति ॥७४॥
भोगेन मत्तता जन्तोर्दानेन पुनरुद्भवः ।
वृथैवोभयथा वित्तं नास्त्येव गतिरन्यथा ॥७५॥
धनेन मदवृद्धिः स्यान्मदेन स्मृतिनाशनम् ।
स्मृतिनाशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥७६॥
सुखयति धनमेवेत्यन्तराशापिशाच्या दृढतरमुपगूढो मूढलोको जडात्मा ।
निवसति तदुपान्ते सन्ततं प्रेक्षमाणो व्रजति तदपि पश्चात्प्राणमेतस्य हृत्वा ॥७७॥
सम्पन्नोऽन्धवदेव किञ्चिदपरं नो वीक्षते चक्षुषा सद्भिर्वर्जितमार्ग एव चरति प्रोत्साहितो बालिशैः ।
तस्मिन्नेव मुहुः स्खलन्प्रतिपदं गत्वान्धकूपे पतत्यस्यान्धत्वनिवर्तकौषधमिदं दारिद्र्यमेवाञ्जनम् ॥७८॥
लोभः क्रोधश्च दम्भश्च मदो मत्सर एव च ।
वर्धते वित्तसम्प्राप्त्या कथं तच्चित्तशोधनम् ॥७९॥
अलाभाद्विगुणं दुःखं वित्तस्य व्ययसम्भवे ।
ततोऽपि त्रिगुणं दुःखं दुर्व्यये विदुषामपि ॥८०॥
नित्याहितेन वित्तेन भयचिन्तानपायिना ।
चित्तस्वास्थ्यं कुतो जन्तोर्गृहस्थेनाहिना यथा ॥८१॥
कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा चोरैर्वापि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा ।
निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनैः क्लिश्नात्येव धनी सदाकुलमतिर्भीतश्च पुत्रादपि ॥८२॥
तस्मादनर्थस्य निदानमर्थः पुमर्थसिद्धिर्न भवत्यनेन ।
ततो वनान्ते निवसन्ति सन्तः संन्यस्य सर्वं प्रतिकूलमर्थम् ॥८३॥