सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — साधनचतुष्टयम् — कामदोषनिरूपणम्
मुखपृष्ठम् · ⬆ साधनचतुष्टयम् · ← · →
कामदोषनिरूपणम्¶
आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमः कामक्रोधमदादिभिः प्रतिभटैः संरक्ष्यमाणोऽनिशम् ।
सम्मोहावरणेन गोपनवतः संसारकारागृहान्निर्गन्तुं त्रिविधेषणापरवशः कः शक्नुयाद्रागिषु ॥४८॥
कामान्धकारेण निरुद्धदृष्टिर्मुह्यत्यसत्यप्यबलास्वरूपे ।
न ह्यन्धदृष्टेरसतः सतो वा सुखत्वदुःखत्वविचारणास्ति ॥४९॥
श्लेष्मोद्गारि मुखं स्रवन्मलवती नासाश्रुमल्लोचनं स्वेदस्रावि मलाभिपूर्णमभितो दुर्गन्धदुष्टं वपुः ।
अन्यद्वक्तुमशक्यमेव मनसा मन्तुं क्वचिन्नार्हति स्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥५०॥
दूरादवेक्ष्याग्निशिखां पतङ्गो रम्यत्वबुद्ध्या विनिपत्य नश्यति ।
यथा तथा नष्टदृगेष सूक्ष्मं कथं निरीक्षेत विमुक्तिमार्गम् ॥५१॥
कामेन कान्तां परिगृह्य तद्वज्जनोऽप्ययं नश्यति नष्टदृष्टिः ।
मांसास्थिमज्जामलमूत्रपात्रं स्त्रियं स्वयं रम्यतयैव पश्यति ॥५२॥
काम एव यमः साक्षात्कान्ता वैतरणी नदी ।
विवेकिनां मुमुक्षूणां निलयस्तु यमालयः ॥५३॥
यमालये वापि गृहेऽपि नो नृणां तापत्रयक्लेशनिवृत्तिरस्ति ।
किञ्चित्समालोक्य तु तद्विरामं सुखात्मना पश्यति मूढलोकः ॥५४॥
यमस्य कामस्य च तारतम्यं विचार्यमाणे महदस्ति लोके ।
हितं करोत्यस्य यमोऽप्रियः सन्कामस्त्वनर्थं कुरुते प्रियः सन् ॥५५॥
यमोऽसतामेव करोत्यनर्थं सतां तु सौख्यं कुरुते हितः सन् ।
कामः सतामेव गतिं निरुन्धन्करोत्यनर्थं ह्यसतां तु का कथा ॥५६॥
विश्वस्य वृद्धिं स्वयमेव काङ्क्षन्प्रवर्तकं कामिजनं ससर्ज ।
तेनैव लोकः परिमुह्यमानः प्रवर्धते चन्द्रमसेव चाब्धिः ॥५७॥
कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयं स्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् ।
अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ बद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥५८॥
अतोऽन्तरङ्गस्थितकामवेगाद्भोग्ये प्रवृत्तिः स्वत एव सिद्धा ।
सर्वस्य जन्तोर्ध्रुवमन्यथा चेदबोधितार्थेषु कथं प्रवृत्तिः ॥५९॥
तेनैव सर्वजन्तूनां कामना बलवत्तरा ।
जीर्यत्यपि च देहेऽस्मिन्कामना नैव जीर्यते ॥६०॥
अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः ।
कामपाशेन यो मुक्तः स मुक्तेः पथि गोचरः ॥६१॥