सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — साधनचतुष्टयम् — साधनचतुष्टयम्
साधनचतुष्टयम्¶
साधनचतुष्टयसम्पत्तिर्यस्यास्ति धीमतः पुंसः ।
तस्यैवैतत्फलसंसिद्धिर्नान्यस्य किञ्चिदूनस्य ॥१२॥
चत्वारि साधनान्यत्र वदन्ति परमर्षयः ।
मुक्तिर्येषां तु सद्भावे नाभावे सिध्यति ध्रुवम् ॥१३॥
आद्यं नित्यानित्यवस्तुविवेकः साधनं मतम् ।
इहामुत्रार्थफलभोगविरागो द्वितीयकम् ॥१४॥
शमादिषट्कसम्पत्तिस्तृतीयं साधनं मतम् ।
तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसम्मतम् ॥१५॥