विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ५३८ – अस्य ग्रन्थस्य संस्कृतभाषया रचनायां हेतुः
आवर्तः ५३८ – अस्य ग्रन्थस्य संस्कृतभाषया रचनायां हेतुः¶
दिव्यां भाषां परित्यज्य ह्यन्यभाषाकृतानि वै।
शास्त्राणि ये प्रशृण्वन्ति ते वै निरयगामिनः॥ १॥ बहुप्रमाणैरित्यादिवचनैर्निन्दितत्वतः१।
चित्तस्य शुद्धये चैव संस्कारार्थमियं कृतिः॥२॥
औषधादौ फलाधिक्यमनुमानबलात्स्फुटम्।
अनेन सर्वशास्त्रार्थसारः सुविदितो भवेत्॥३॥
ग्रन्थकारटिप्पणी
१. भारते शेषधर्मे।
॥इति श्रीवासुदेवब्रह्मेन्द्रसरस्वतीविरचिते संस्कृतविचारसागरे जीवन्मुक्तिविदेहमुक्तिवर्णनं नाम सप्तमस्तरङ्गः समाप्तः॥
॥ ग्रन्थश्च समाप्तः ॥