सामग्रीं त्यजन्तु

विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ५३२ – अन्धगोलाङ्गूलन्यायः

आवर्तः ५३२ – अन्धगोलाङ्गूलन्यायः

कस्यचिद्धनिकस्य पुत्रं सर्वाभरणभूषितं चोरा वनमानीयाभरणान्यपि सर्वाण्यपहृत्य तन्नेत्रे बद्ध्वा विजने विसृज्य जग्मुः। तदा तत्र रुदन्तं तं बालं निर्दयः कश्चिदतिवञ्चकोऽतिबलिष्ठमुन्मत्तं कञ्चिद्बलीवर्दं लाङ्गूले तद्धस्तेन ग्राहयित्वा मा त्यजास्य लाङ्गूलम्। शीघ्रं स्वग्राममनेन प्राप्नोषीत्यवोचत्। स च दुःखी बालस्तद्वचनं विश्वस्य तदुक्तमनुष्ठाय ततोऽपि महत् दुःखमनुभूय विनष्टोऽभूत्। तद्वद्विषयरूपाश्चोरा विवेकाख्यं नेत्रं पिधाय संसारवने मुमुक्षुं सन्त्यजन्ति। तदा भेदवादी१ मतान्तरस्थो निर्दयवञ्चकोऽन्यशास्त्रसिद्धान्ते तस्य विश्वासं जनयित्वा 'अस्मदुपदेश एव तव परमसुखप्राप्तिहेतुः मा त्यजैनम्' इति उपदिशति। मन्दतमो ह्यधिकारी तद्वाक्यमेव विश्वस्य तदुक्तमाचरन् परमपुरुषार्थसुखरहितो जननमरणरूपं महद्दुःखमनुभवेत्। अतः शास्त्रान्तराणि मुमुक्षुणा म्लेच्छशास्त्रवद्दूरतस्त्याज्यान्येव।

ग्रन्थकारटिप्पणी

१. भेदवादिनो ह्याचार्याः स्वयमपि स्वशास्त्रोक्तपरमेश्वरप्राप्तिरूपमोक्षाद्यनुभवशून्या वर्तन्ते। क्रमशोऽप्युक्तोपासनादिरूपमोक्षसाधनरहिताः शिष्यवित्तापहारार्थं शिष्यत्वेनान्यान् वशीकर्तुं स्वसमयसंप्रदायचिह्नितसाङ्केतिकमन्त्रोपदेशं कुर्वन्ति। अस्मदु शास्त्रीयात्सन्मार्गाद्भ्रष्टानां सतां यावज्जीवं जन्म निष्फलं किल स्यादिति परितापो न तेषां जायते। एवं दयाविरहिता वञ्चका एव भेदवादिनो द्वैतिनः।