सामग्रीं त्यजन्तु

विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ५२८ – शुभसन्ततेः प्रश्नः। उत्तरमीमांसायाः प्रामाण्यं, तदितरशास्त्राणामप्रामाण्यं

आवर्तः ५२८ – शुभसन्ततेः प्रश्नः। उत्तरमीमांसायाः प्रामाण्यं, तदितरशास्त्राणामप्रामाण्यं

शुभसन्ततिः स्वपुत्रोक्तं वचः श्रुत्वा, पुराणानां परस्परविरोधशङ्कायाः समाधानं च लब्ध्वा सुख्यभूत्। परन्तु षट्च्छास्त्राणां परस्परविरोधाशङ्कानिवृत्त्यभावाद्विशेषतः सुखी नाभूत्। अतो यच्छास्त्रविज्ञानेन परमार्थसत्यमवबुद्ध्येत, किं तच्छास्त्रं सत्यभूतमिति पुनः पुत्रं पप्रच्छ।