विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ५०८ – ज्ञानिन इच्छादिसंभवेऽपि व्यवहारे औदासीन्यम्
मुखपृष्ठम् · ⬆ सप्तमस्तरङ्गः · ← · →
आवर्तः ५०८ – ज्ञानिन इच्छादिसंभवेऽपि व्यवहारे औदासीन्यम्¶
ज्ञानिनोऽपि सकलव्यवहारोऽज्ञवत् प्रारब्धवशाज्जायत इति प्रागभिहितम्। तदनुकूला इच्छापि तस्य संभवेदेव। यद्यप्यन्तःकरणं भूतानां सत्त्वगुणकार्यमित्युक्तम्। तथापि रजस्तमोगुणसहितसत्त्वगुणकार्यमेव तन्न तु केवलसत्त्वगुणकार्यम्। केवलसत्त्वगुणकार्यं चेदेतत् स्यात् तदा अन्तःकरणस्य चाञ्चल्यस्वभावो न कदापि स्यात्। तथा कामक्रोधाद्या राजस्यो वृत्तयो निद्रालस्यमूढत्वाद्यास्तामस्यो वृत्तयश्च न स्युः। सर्वत्र तासां प्रतिप्राणि जायमानत्वादेव न केवलसत्त्वगुणकार्यमन्तःकरणम्। किन्तु, अप्रधानीभूतरजस्तमोगुणसहितसत्त्वगुणप्रधानपञ्चभूतकार्यमेव। तस्मादन्तःकरणे त्रयोऽपि ते गुणाः सर्वदा वर्तन्त एव। परन्तु न समतया। न्यूनाधिकभावेन तु वर्तन्ते। तस्माद्गुणानां न्यूनाधिकभाववशात् प्रतिप्राणि विलक्षणस्वभावमन्तःकरणम्। तद्यावदन्तःकरणमास्ते, तावद्रजोगुणपरिणामरूपा इच्छापि स्यादेव। यत् क्वचिच्छास्त्रान्तरेषु नैव ज्ञानिन इच्छादिः संभवेदित्युक्तम्। तत्रायमभिप्रायः – ज्ञान्यज्ञानिनोर्द्वयोरपीच्छा स्यादेव। तथापि –
(१) अज्ञ इच्छादीनात्मधर्मत्वेन जानाति। (२) ज्ञानी त्विच्छाद्युत्पत्तिसमयेऽपि नैव तानात्मधर्मत्वेन विजानाति। किन्तु अन्तःकरणपरिणामत्वात्तद्धर्मा एवेति तान् संवेत्ति। इत्थं ज्ञानिनामिच्छादिसंभवेऽपि यतो न ते आत्मधर्मत्वेन ज्ञानिनः प्रतिभान्ति अतो ज्ञानिन इच्छादयो न संभवन्तीति।
तथा मनोवाक्कायकृतं संव्यवहारादिकं सर्वं न ज्ञानिन आत्मधर्मत्वेन प्रतिभाति, किन्तु क्रियासामान्यं मनोवाक्कायाश्रितं तत्रैव वर्तते। आत्मा त्वसङ्ग इत्येव प्रतिभाति। तस्माज्ज्ञानी सर्वव्यवहारेषु कर्ताप्यकर्तेव। "न कर्मणा लिप्यते पापकेन" (बृ० ४।४।२३) इत्यादिश्रुतेः। ज्ञानोदयादनन्तरं प्रारब्धकृतशुभाशुभकर्मफलरूपसुखदुःखादिना नैव ज्ञानी सम्बध्यते। तदेवं प्रारब्धवशादज्ञवत् ज्ञानिनोऽपि सर्वो व्यवहारस्तदनुकूला इच्छादयश्च संभवेयुरेव।