विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ५०६ – साहित्यादितात्पर्यनिश्चयपूर्वकः तर्कदृष्टेः सारग्राही निश्चयः
मुखपृष्ठम् · ⬆ सप्तमस्तरङ्गः · ← · →
आवर्तः ५०६ – साहित्यादितात्पर्यनिश्चयपूर्वकः१ तर्कदृष्टेः सारग्राही निश्चयः¶
मम्मटभट्टादिकृताः साहित्यग्रन्थाः कामशास्त्रेऽन्तर्भवन्ति। काव्येषु
केषाञ्चित्२ कामशास्त्रेऽन्तर्भावः केषाञ्चित् धर्मशास्त्रे३। इत्थमष्टादशापि विद्यास्थानानि ब्रह्मात्मैकत्वज्ञानसम्पादनद्वारा मोक्षहेतुभूतानि। कानिचित् साक्षात्४
कानिचित्परम्परया। अयमेव सर्वशास्त्राणामभिप्राय इति तर्कदृष्टिर्निश्चिकाय।
यद्यप्युत्तरमीमांसां विना सर्वाण्यपि शास्त्राणि मुमुक्षुणा जिज्ञासुना सुतरां
परित्याज्यानीति शारीरकमीमांसासूत्रतद्भाष्यकारादिभिः प्रतिपादितम्। तथापि
उक्तेन नयेन तान्यपि कथमपि तत्रोपयुज्यन्त इति सूक्ष्मदृष्ट्या तर्कदृष्टिरेवं
निश्चिकाय।
ग्रन्थकारटिप्पणी
१. साहित्यमलङ्कारग्रन्थः।
२. नायिकाभेदरसभेदाद्यर्थप्रतिपादकानाम्।
३. भगवच्चारित्रप्रतिपादकानाम्।
४. बुभुक्षितस्य क्षुन्निवर्तनद्वारा तृप्त्युत्पादने पक्वान्नं यथा साक्षात्साधनम्। कृषिसस्यादिकं च यथा परम्परासाधनम्, तथाज्ञाननिवृत्तिद्वारात्मानुभवरूपतृप्त्युत्पादने केचन ग्रन्था ज्ञानोत्पादनद्वारा साक्षात्साधनम्, केचन ग्रन्था निष्कामकर्मप्रतिपादनद्वारा परम्परासाधनम्।