विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ५०१ – साङ्ख्यशास्त्रप्रयोजनम्
मुखपृष्ठम् · ⬆ सप्तमस्तरङ्गः · ← · →
आवर्तः ५०१ – साङ्ख्यशास्त्रप्रयोजनम्¶
कपिलः साङ्ख्यशास्त्रं षडध्यायरूपं रचयाम्बभूव।
- (१) तत्र प्रथमाध्याये तच्छास्त्रविषयः प्रतिपाद्यते।
- (२) द्वितीयाध्याये महत्तत्त्वाहङ्कारादयः प्रधानकार्याण्युच्यन्ते।
- (३) तृतीयाध्याये विषयेभ्यो वैराग्योत्पत्तिः कथ्यते।
- (४) चतुर्थाध्याये विरक्तानां चरित्रं निरूप्यते।
- (५) पञ्चमाध्याये परपक्षः खण्ड्यते।
- (६) षष्ठाध्याये सकलार्थसङ्ग्रहः कथ्यते।
प्रकृतिपुरुषविवेकात् पुरुषोऽसङ्ग इति ज्ञानं साङ्ख्यशास्त्रप्रयोजनम्। त्वंपदलक्ष्यार्थशोधनद्वारा महावाक्यजन्यज्ञानोपयोगित्वात् तच्छास्त्रस्यापि मोक्ष एव फलम्।