सामग्रीं त्यजन्तु

विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ४९३ – अष्टादश विद्यायाः प्रस्थानानि

आवर्तः ४९३ – अष्टादश विद्यायाः प्रस्थानानि

वेदाश्चत्वारः। उपवेदाश्चत्वारः। वेदाङ्गानि षट्। पुराणन्यायमीमांसाधर्मशास्त्राणि चत्वारि चेत्येवं वैखरी वाणी संस्कृतभाषारूपा अष्टादशभेदा भवति। अष्टादश२ प्रस्थानानि इति त एव भेदा उच्यन्ते।

ग्रन्थकारटिप्पणी

२. विद्याङ्गानि प्रस्थानानीत्युच्यन्ते। इत्थमग्निपुराणारम्भे प्रतिपादितम्। तथा मधुसूदनसरस्वतीस्वामिकृतप्रस्थानभेदग्रन्थे च।