विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ४७९ – निर्विकल्पसमाधौ लयविक्षेपकषायरसास्वादरूपविघ्नचतुष्टयनिरूपणम्
मुखपृष्ठम् · ⬆ सप्तमस्तरङ्गः · ← · →
आवर्तः ४७९ – निर्विकल्पसमाधौ लयविक्षेपकषायरसास्वादरूपविघ्नचतुष्टयनिरूपणम्¶
निर्विकल्पसमाधौ चत्वारो विघ्नाः स्युः। तन्निवृत्त्यर्थं तत्स्वरूपं कथ्यते। (१) लयः, (२) विक्षेपः, (३) कषायः, (४) रसास्वाद इति विघ्नाः चत्वारः।
तत्र लयः – आलस्येन निद्रया वा वृत्त्यभावो लय इत्युच्यते।
तस्मिन् सति सुषुप्तितुल्यावस्था समाधिनिष्ठस्य जायते।
ब्रह्मानन्दोऽपि तदा तिरोभवति।
तस्मान्निद्रालस्यादिनिमित्तैर्यदा वृत्तिः स्वोपादानेऽन्तःकरणे लीयेत,
तदा योगी सावधानः सन् निद्रादिकं निरुध्य वृत्त्युत्पादनं कुर्यात्।
इदमेव श्रीगौडपादाचार्यैश्चित्तसम्बोधनमित्युक्तम्२।
लयरूपस्य विघ्नस्य विरोधि निद्रालस्यादिनिरोधकं वृत्तिप्रवाहरूपं जागरणमेव चित्तसम्बोधनम्।
ग्रन्थकारटिप्पणी
२. गौडपादाचार्यैर्माण्डूक्योपनिषत्कारिकायां कथितम्।