विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ४७६ – सुषुप्तिनिर्विकल्पसमाध्योर्भेदः
मुखपृष्ठम् · ⬆ सप्तमस्तरङ्गः · ← · →
आवर्तः ४७६ – सुषुप्तिनिर्विकल्पसमाध्योर्भेदः¶
सुषुप्तावन्तःकरणवृत्तिर्ब्रह्माकारतां न प्राप्नोति। किन्तु कारणाज्ञानात्मतां
भजते। निर्विकल्पसमाधौ तु ब्रह्माकारतयान्तःकरणवृत्तिर्वर्तते। इत्थम् – सुषुप्तौ
सवृत्तिकान्तःकरणस्याभावः। निर्विकल्पसमाधौ सवृत्तिकान्तःकरणस्य सत्त्वेऽपि न प्रतीतिः। निर्विकल्पसमाधौ१ अन्तःकरणस्य ब्रह्माकारवृत्त्युत्पत्तौ
सविकल्पसमाध्यभ्यासो हेतुः। तस्मादेव साधनरूपाष्टाङ्गेषु सविकल्पः
समाधिरपि गण्यते। निर्विकल्पसमाधिस्तु तस्य फलम्।
ग्रन्थकारटिप्पणी
१. वायूपादानकत्वादग्न्युत्पत्तिस्थितिनाशानां वायुरुपादानकारणमग्नेः। यथा वायोरभावे दीपः प्रशाम्यति। अनुकूलवायुप्रदेशे अचलः प्रकाशते। तथैव समाधावन्तःकरणस्य सुतरामभावे शरीरं पतेत्। तस्मान्मनोबुद्धिचित्ताहङ्कारादिवृत्तिं विना सूक्ष्मरूपेण निर्वृत्तिकमेवान्तःकरणमास्ते। समाधेरुत्थानसमये समाधिसुखस्मरणसत्त्वात् अननुभूते च स्मरणासंभवात् समाधावपि वृत्तिसद्भावोऽनुमीयते। समाधावन्तःकरणाभावे योगिशरीरं पतेदेव सुप्तदेहवत्। न तु तथा पतति। तस्मात् समाधावन्तःकरणमस्त्येवेति स्वीकर्तव्यमिति तात्पर्यम्।