विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ४७४ – प्रत्याहारधारणाध्यानानि
मुखपृष्ठम् · ⬆ सप्तमस्तरङ्गः · ← · →
आवर्तः ४७४ – प्रत्याहारधारणाध्यानानि¶
स्वस्वविषयेभ्यः सकलेन्द्रियनिरोधः *१ प्रत्याहारः। नैरन्तर्येणान्तःकरणस्यैकाकारतास्थितिः *२ धारणा। बह्वन्तराययुक्ताद्वितीयप्रत्यग्ब्रह्मणि प्रवहदन्तःकरणप्रवाहो *३ ध्यानम् इत्युच्यते।
ग्रन्थकारटिप्पणी
१. विषयेष्वात्मतां दृष्ट्वा मनसश्चितिमज्जनम्।
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः॥
२. यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनम्।
मनसो धारणञ्चैव धारणा सा परा मता॥
३. ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः।
ध्यानशब्देन विख्याता परमानन्ददायिनी॥