सामग्रीं त्यजन्तु

विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ४७१ – नियमः

आवर्तः ४७१ – नियमः

(१) शौचम्, (२) सन्तोषः, (३) तपः, (४) स्वाध्यायः, (५) ईश्वरप्रणिधानमिति पञ्चविधो नियमः। ज्ञानसमुद्राख्ये ग्रन्थे दशविधो यमः, दशविधो नियमश्चोक्तः। सा च पौराणिकी रीतिः। वेदान्तसंप्रदायरीत्या तु प्रत्येकं तयोः पञ्च पञ्चैव भेदाः।

ग्रन्थकारटिप्पणी

सजातीयप्रवाहश्च विजातीयतिरस्कृतिः। नियमो हि परानन्दो नियमात्क्रियते बुधैः॥ न केवलं शौचादिः।