विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ४६० – स्वप्नग्रन्थस्य समाप्तिः
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ४६० – स्वप्नग्रन्थस्य समाप्तिः¶
इत्थं गुरूपदेशं श्रुत्वा शिष्यः कृतकृत्योऽभवत् –
इत्थं श्रुत्वा कृतार्थोऽभूद्वाक्यं शिष्यो गुरोर्मुखात्।
इत्थमन्योऽपि यः कश्चिद्वेद चेच्चिद्विचारणात्॥
निःशेषदुःखनाशात्स सद्य एव विमुच्यते।
सर्वमेतच्चोपदिष्टं स्वप्नवत् स्वविकल्पितैः॥
गुरुवेदान्तशास्त्राद्यैर्मिथ्याभूतैर्मनःकृतैः।
श्रुतेऽस्मिन् ग्रन्थरत्ने तु ह्यज्ञानं प्रविनश्यति॥
उपदेशोऽगृधदेवस्य स्वप्ने गुरुकृतोऽप्ययम्।
मिथ्यावनस्वरूपं तु न नष्टं दुःखकारणम्॥