सामग्रीं त्यजन्तु

विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ४५२ – अवच्छेदवादः

आवर्तः ४५२ – अवच्छेदवादः

कतिपयग्रन्थेषु शुद्धसत्त्वगुणोपेतमायाविशिष्टचैतन्यमीश्वरः, मलिनसत्त्वगुणोपेतान्तःकरणोपादानकारणीभूताविद्यांशविशिष्टचैतन्यं जीव इति च कथ्यते। अयमेवावच्छेदवाद इत्युच्यते। वेदान्तेषु प्रक्रियाभेदाः सर्वे१ अप्यद्वैतात्मावगमार्था एव। अत एव यया यया प्रक्रियया जिज्ञासोर्बोधो भवेत्सा सा प्रक्रिया तस्य तस्य समीचीनाभिप्रेता। तथापि वाक्यवृत्त्युपदेशसाहस्र्यादौ भाष्यकारैराभासवाद एवाभ्युपगतः। तस्मादाभासवाद एव मुख्यः।

ग्रन्थकारटिप्पणी

१. सर्वशब्देन कार्यकारणोपाधिवादः, अवच्छिन्नानवच्छिन्नवादः, दृष्टिसृष्टिवादः इत्यादयो गृह्यन्ते। वेदान्तस्यानेकपक्षानुवादोऽप्यप्पय्यदीक्षितकृतशास्त्रसिद्धान्तलेशाख्यग्रन्थे कृतः।