विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ४४९ – आभासवादः
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ४४९ – आभासवादः¶
पञ्चदशीग्रन्थे विद्यारण्यस्वामिनोऽन्तःकरणाभासो जीव इत्यवोचन्। नन्वन्तःकरणाभासो जीव इत्यभ्युपगमे सुषुप्तावन्तःकरणाभावाज्जीवाभावः प्रसज्येत। तथा सति प्राज्ञरूपो जीवः सुषुप्त्यभिमानी वर्तत इति प्रसिद्धिर्विरुध्येतेति चेन्न। अन्तःकरणाभासो जीव इति वदतां विद्यारण्यस्वामिनामयमाशयः अन्तःकरणात्मना परिणममानाविद्यांशप्रतिफलित आभासो जीवः। स चाविद्यांशः सुषुप्तावप्यस्ति। तस्मान्न प्राज्ञाभावप्रसङ्ग इति।
अत्रायं विशेषः – जीवेश्वरौ न केवलाभासरूपौ१। किन्तु मायाधिष्ठानचैतन्यम्, माया, तत्र चैतन्याभासः इत्येतत् त्रयं मिलित्वा ईश्वरः। अविद्यांशाधिष्ठानचैतन्यम्, अविद्यांशः, तत्र चैतन्याभास इत्येतत् त्रयं मिलित्वा जीवः।
ईश्वरोपाधौ शुद्धसत्त्वगुणस्य सत्त्वात् ईश्वरे सर्वज्ञत्वसर्वशक्तिमत्त्वादिधर्मा वर्तन्ते।
जीवोपाधौ मलिनसत्त्वगुणस्य सत्त्वात् जीवेऽल्पशक्तिमत्त्वकिञ्चिज्ज्ञत्वादिधर्मा
वर्तन्ते। अयमेवाभासवाद इत्युच्यते।
ग्रन्थकारटिप्पणी
१. जीवेश्वरौ न केवलचिदाभासौ। स्वतादात्म्यसंबन्धवशात् अधिष्ठानानतिरिक्ततया यद्भाति तदारोपितमित्युच्यते। आरोपितं चाधिष्ठानातिरिक्ततया न भाति। यथा रज्ज्वारोपितः सर्पः रज्ज्वतिरिक्ततया न भाति। किन्तु रज्ज्वनतिरिक्ततया रज्जुस्वरूपमाच्छाद्य सर्पो भाति। तथा मायाविद्यास्थाभासावपि आरोपितत्वेन हेतुना तयोरधिष्ठानभूतकूटस्थब्रह्मचैतन्यातिरिक्ततया न भातुमर्हतः। किन्तु तावुभावप्याभासौ स्वाधिष्ठानभूतकूटस्थब्रह्मचैतन्याभ्यां तादात्म्यसंबन्धरूपैकत्वं प्राप्य अधिष्ठानभूतकूटस्थब्रह्मणोः स्वरूपमाच्छाद्यैव विभातः। तस्मादधिष्ठानचैतन्यं मायाविद्यारूपोपाधिसहितचिदाभासश्च जीवो वा ईश्वरो वा भवति।