विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ४३५
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ४३५¶
भेदाभेदयोः परस्परविरोधित्वात् तयोः सामानाधिकरण्यासंभवाच्च उपादानकारणतत्कार्ययोर्भेदसहिताभेदो नास्ति। तयोः केवलभेदोऽस्ति१। केवलभेदपक्षे भट्टेनोक्तो दोषो नैयायिकमते सामर्थ्यरूपशक्तिवादिसिद्धान्तिमते च न संभवति। उपादानकारणतत्कार्ययोरत्यन्तभेदे भट्टेन प्रदर्शितो
दोषस्त्वयम् मृत्पिण्डात् अत्यन्तभिन्नो घटस्ततो यद्युत्पद्येत तदा मृत्पिण्डात्
अत्यन्तभिन्नतैलोत्पत्तिरपि तत आपद्येत। अत्यन्तभिन्नत्वात्। मृत्पिण्डात् तैलं
यदि नोत्पद्यते तर्ह्यत्यन्तभिन्नत्वाविशेषात् घटोऽपि मृत्पिण्डान्नोत्पद्येतेति।
ग्रन्थकारटिप्पणी
१. सामर्थ्यरूपशक्तिवादिसिद्धान्तिमते उपादानकारणस्य कार्येण सह नात्यन्तभेदः। किन्त्वनिर्वचनीयतादात्म्यसंबन्धोऽस्ति। तथाप्यत्र तयोर्योऽत्यन्तभेद उक्तः स प्रौढिवादेन। प्रौढिर्नाम = स्वमाहात्म्यं, वादः = कथनम्। तथा च स्वमाहात्म्यप्रकटनाय वादः प्रौढिवादः। प्रौढिवादलक्षणं चैवम् – प्रतिवाद्युक्तमङ्गीकृत्यापि स्वमते दोषपरिहारः। प्रकृते चोपादानकारणतत्कार्ययोर्भेदपक्षे भट्टो दोषमब्रवीत्। तादृशभट्टोक्तदोषयुक्तपक्षमङ्गीकृत्यापि स्वमते दोषः परिहृतः। तस्मादयं प्रौढिवादः।