विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ४२० – त्रिविधलक्षणानिर्देशः
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ४२० – त्रिविधलक्षणानिर्देशः¶
पूर्वस्मिन् (४१७) आवर्ते भागत्यागलक्षणा प्रपञ्चिता। तत्र हेतुवर्णनायेदानीं लक्षणाभेदः कथ्यते। पण्डिता हि (१) जहती लक्षणा, (२) अजहती लक्षणा, (३) भागत्यागरूपा लक्षणा इति त्रिविधां लक्षणामाहुः। तत्राद्यं द्वयं महावाक्यार्थज्ञाने नोपयुज्यते। महावाक्यं हि भागत्यागलक्षणया बोद्धुर्निजस्वरूपभूतं ब्रह्म बोधयति।