विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ४१५ – मुमुक्षोः हेयवर्गस्योपदेशः
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ४१५ – मुमुक्षोः हेयवर्गस्योपदेशः¶
हे सोम्य पदार्थेषु दृढासक्तिरूपं रागम्, लोभम्, द्वेषम्, कामं च दूरीकुरु। रागलोभद्वेषकामग्रहणं सर्वासां राजसतामसवृत्तीनामुपलक्षणम्। सर्वा राजसतामसवृत्तयः समूलमुन्मूलयितव्या इति यावत्। राजसतामसवृत्तयो ज्ञानस्य विरोधिन्यः। तासामुन्मूलनं विना ज्ञानं नोदियात्। तस्मात्तासां निवृत्तिर्जिज्ञासोरवश्यमपेक्षिता। इति जिज्ञासोर्हेयवर्गोपदेशः।