विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ४०९ – असज्जातबोधो य उत्तमजिज्ञासुः, यश्च मन्दजिज्ञासुस्तयोरुभयोरपि
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ४०९ – असज्जातबोधो य उत्तमजिज्ञासुः, यश्च मन्दजिज्ञासुस्तयोरुभयोरपि¶
(१) यस्य बोधो न सञ्जातः। किन्तु तीव्रतरा आत्मज्ञानेच्छास्ति, भोगेच्छा च नास्ति तस्यान्तःकरणं शुद्धमेवास्ते। तस्मात् स उत्तमजिज्ञासुरित्युच्यते। तस्य बोधसिद्धये श्रवणादिकमेवानुष्ठेयम्, न कर्मोपासने। कर्मोपासनयोः फलभूतान्तःकरणशुद्धिनैश्चल्ययोस्तस्य सिद्धत्वात्।
(२) यो ज्ञाने सामान्येच्छया श्रवणादौ प्रवर्तते। यस्य चान्तःकरणं
भोगे आसक्तं स मन्दजिज्ञासुः। सोऽपि श्रवणं परित्यज्य पुनरपि कर्मोपासनयोः प्रवर्तितुं नाहर्ति१। कर्मोपासनफलभूतान्तःकरणशुद्धिनैश्चल्ये श्रवणेनैव तस्य
सिद्धे भवतः। श्रवणस्यावृत्त्यैवान्तःकरणदोषस्य निवृत्त्या तस्येह जन्मनि
जन्मान्तरे वा ब्रह्मलोके वा ज्ञानं सिद्ध्येत्। आवृत्तिर्नामाभ्यासः। पुनःपुनरनुष्ठानम्। साधनानुष्ठाने प्रयत्नधारेति यावत्। श्रवणं परित्यज्य
कर्मोपासनयोः प्रवर्तमान आरूढपतित२ इत्यभिधीयते।
ग्रन्थकारटिप्पणी
१. निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत्।
जिज्ञासायां संप्रवृत्तो नाद्रियेत् कर्मचोदनाम्॥
२. मोक्षसोपानमारुह्य ततश्च्युतस्यारूढपतितस्य विषये 'करस्थं पायसं त्यक्त्वा कूर्परं लेढि दुर्मतिः' इति प्रसिद्धः करंलेढिन्यायः प्रसज्यते।
उपेक्ष्य तत्तीर्थयात्राजपादीनेव कुर्वताम्।
पिण्डं समुत्सृज्य करं लेढीति न्याय आपतेत्॥ प. ध्या. १३०॥
उपेक्ष्य = अपरोक्षज्ञानसाधननिर्गुणोपासनश्रवणादिकं परित्यज्येत्यर्थः।
इत्थं च ज्ञानिनः, उत्तमजिज्ञासोश्च कर्मोपासनयोरधिकारो नास्ति। मन्दजिज्ञासुर्यो वेदान्तश्रवणे प्रवृत्तस्तस्याप्यधिकारो नास्ति। यस्य ज्ञाने इच्छास्ति परन्तु बुद्धिर्भोगे आसक्ता, तस्मात् श्रवणे न प्रवर्तते तस्य मन्दजिज्ञासोः निष्कामकर्मण्युपासने चाधिकारोऽस्ति। यस्य तु भोगे एवेच्छास्ति ज्ञानेच्छा नास्ति स बहिर्मुख इति कीर्त्यते। तस्य सकामकर्मण्यप्यधिकारोऽस्ति।
तस्माज्ज्ञानिनः कर्मोपासनयोरधिकारो नास्ति। कर्मोपासने ज्ञानस्य विरोधिनी।