सामग्रीं त्यजन्तु

विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ३६९ – आत्मा सर्वार्थप्रकाशकः

आवर्तः ३६९ – आत्मा सर्वार्थप्रकाशकः

आत्मा चिद्रूपोऽस्ति। प्रकाशरूपं ज्ञानमेव *१ चित् इत्युच्यते। (१) 'अप्रकाशरूप आत्मा' इत्यङ्गीकारे अनात्मजडवस्तूनां प्रकाशः कदापि न भवेत्। (२) अन्तःकरणेनेन्द्रियैश्च पदार्थानां प्रकाशकथनं तु न युज्यते। तथा हि (१) यत्परिच्छिन्नं तत् घटादिवत् कार्यम्। अन्तःकरणमिन्द्रियाणि च परिच्छिन्नत्वात् कार्याणि। (२) देशकालाभ्यां यस्यान्तो भवति तत् परिच्छिन्नम्। (३) यत् कार्यं तत् जडम्।

ग्रन्थकारटिप्पणी

१. अलुप्तप्रकाश एव चिद् इत्युच्यते। चैतन्यस्वरूपस्य ज्ञानस्य लोपो (नाशो) नास्ति। "न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्" (बृ० ४।३।२३) इत्यादिश्रुतेः।

अन्तःकरणमिन्द्रियाणि च जडानि। तैः कस्यापि वस्तुनः प्रकाशो न स्यात्। तस्मादात्मैव सर्वपदार्थानां प्रकाशकः। अतश्चात्मा प्रकाशस्वरूपः।