सामग्रीं त्यजन्तु

विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ३६१ – आत्मनो मध्यमपरिमाणत्ववादिनैयायिकमतकथनम्

आवर्तः ३६१ – आत्मनो मध्यमपरिमाणत्ववादिनैयायिकमतकथनम्

न्यायमते केचन नवीना एवमाहुः (१) आत्मा नाना, कर्ता, भोक्ता च। न तु व्यापकः१। अतो न भोगसाङ्कर्यम्। (२) नाप्यणुरात्मा। अत उभयत्र कण्टकवेधजन्यपीडानुभवासंभवदोषोऽपि न। किन्तु यथा वेदान्तिमते अन्तःकरणं मध्यमपरिमाणं तथा आत्मापि मध्यमपरिमाणो भवति। तस्मिन्नात्मनि चतुर्दश गुणाः सन्तीति।

ग्रन्थकारटिप्पणी

१. यथा नानाघटानां व्यापकत्वाङ्गीकारो निष्फलस्तथा प्रतिशरीरं कर्तृभोक्तृरूपनानात्मनां व्यापकत्वाभ्युपगमो निष्फलः। अथवा नानान्तःकरणाभ्युपगमेनैव भोगासाङ्कर्यसिद्धेर्व्यापकस्यात्मनो नानात्वाङ्गीकारो निष्प्रयोजनः।