विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ३५७ – त्वङ्मनसोः संयोगेनात्मनि ज्ञानमुत्पद्यते आत्मा स्वभावतो जड इत्येकदेशिनैयायिकमतम्
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ३५७ – त्वङ्मनसोः संयोगेनात्मनि ज्ञानमुत्पद्यते आत्मा स्वभावतो जड इत्येकदेशिनैयायिकमतम्¶
कश्चनैकदेशी१ त्वचा सह मनसः संयोगं ज्ञानस्य कारणमाह। आत्मना
सह संयोगं न कारणमाह। सुषुप्तौ पुरीतन्नामकनाड्यां मनः प्रविशति। अतस्त्वचा सह मनसः संयोगो नास्ति। तस्मात् सुषुप्तौ ज्ञानं नोत्पद्यते। एतन्मते त्वचा सह संयुक्तं मन एव ज्ञानद्वारा दुःखहेतुत्वात् दुःखम् इत्युच्यते।
न तु केवलं मनः। मोक्षे त्वचो नाशात्तया सह संयोगाभावाज्ज्ञानं नोत्पद्यते।
मोक्षकाले मनोऽस्ति। परन्तु दुःखहेतुज्ञानजनकं त्वक्संयुक्तं यन्मनस्तस्य
संयोगनाशान्नाशो भवति।
ग्रन्थकारटिप्पणी
१. कश्चन नैयायिकैकदेशी त्वचा सह मनसः संयोगं ज्ञानस्य हेतुमाह। तन्न युक्तम् (१) यथा 'मनसा सहात्मनः संयोगो ज्ञानहेतुः' इत्यत्र न किमपि प्रमाणमस्ति। तथा 'त्वचा सह संयोगो ज्ञानहेतुः' इत्यत्रापि श्रुत्यादिरूपं किञ्चिदपि प्रमाणं नास्ति।
(२) प्रमाणासिद्धस्वकपोलकल्पितवस्त्वभ्युपगमे –
मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः।
एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः॥
इत्यादिवाक्यार्थोऽप्यङ्गीकार्यो भवेत्। तस्मात्त्वचा सह मनसः संयोगो न ज्ञानहेतुः।
(३) सुषुप्तौ त्वचा मनसः संयोगाभावेऽपि प्रज्ञावतां बुद्ध्याद्यगम्यं सुखाज्ञानयोः सामान्यज्ञानं भवति। तन्न स्यात् त्वङ्मनसोः संयोगस्य ज्ञानहेतुत्वाभ्युपगमे। तस्मात् त्वङ्मनसोः संयोगो न ज्ञानकारणम्। किन्तु 'आत्मनः स्वरूपमेव ज्ञानम्' इति श्रुतिसिद्धोऽर्थोऽङ्गीकर्तुमुचितः।
(११) इत्थं मोक्षदशायां परात्मनो भिन्नो दुःखरहितो व्यापक आत्मा
जडरूपस्तिष्ठति२। ज्ञानगुणेन ह्यात्मा प्रकाशते। जीवस्य सर्वं ज्ञानमिन्द्रियजन्यमेव; न नित्यम्। तच्चेन्द्रियजं सर्वं ज्ञानं मोक्षकाले नष्टम्। तस्मात्प्रकाशरहितो जडरूप आत्मा मोक्षदशायां वर्तत इति न्यायसिद्धान्तः।
ग्रन्थकारटिप्पणी
२. न्यायमते 'आत्मा विभुर्जडश्च' इत्यङ्गीकृतम्। तदेतच्छ्रुतिविरुद्धम्। "अत्रायं पुरुषः स्वयं ज्योतिर्भवति" (बृ० ४।३।९।१४), "योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः" (बृ० ४।३।७), "सत्यं ज्ञानमनन्तं ब्रह्म" (तै० ब्र० १), "प्रज्ञानं ब्रह्म" (ऐ० ३।१) इत्याद्यनेकश्रुतिवाक्यैर्व्यापकस्यात्मनश्चेतनस्वरूपत्वं श्रूयते। युक्तयोऽप्यन्ते मूले (३६९-३७२) आवर्तेषु वर्णयिष्यन्ते। अतः 'आत्मा स्वरूपतो जडः' इति नैयायिकोक्तिरसङ्गता।