विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ३५४ – आत्मा व्यापकः एकश्च
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ३५४ – आत्मा व्यापकः एकश्च¶
अत एवात्मा एक एव। न नाना। यद्यात्मा कर्ता भोक्ता च भवेत् तदा नाना भवेत्। तथा हि एकः सुखी आस्ते। अपरश्च दुःखी। कर्तृत्वभोक्तृत्वादिधर्मविशिष्ट एक एवेत्यङ्गीकारे एकस्य सुखे सर्वेषां सुखम् एकस्य दुःखे सर्वेषां च दुःखं प्रसज्येत। न तु तथास्त्यनुभवः। तस्माद्भोक्ता नानेत्येवाङ्गीकार्यम्। आत्मा त्वभोक्ता। अत एव एक एवात्मा। एक एवात्मा सर्वशरीरेषु व्यापकः।