विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ३४८ – निर्गुणसगुणवस्तुनिर्देशरूपनमस्काररूपाशीर्वादरूपमङ्गलप्रदर्शनम्
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ३४८ – निर्गुणसगुणवस्तुनिर्देशरूपनमस्काररूपाशीर्वादरूपमङ्गलप्रदर्शनम्¶
तत्र निर्गुणवस्तुनिर्देशरूपमङ्गलं यथा –
परिपूर्णं चिदानन्दं बुद्धिसाक्षि यदद्वयम्।
सूर्यादिभासकं नित्यं तेजः शुद्धं तदस्म्यहम्॥
सगुणवस्तुनिर्देशरूपमङ्गलं यथा –
विघ्नाः समूलं नश्यन्ति यन्नामोच्चारणात्सकृत्।
त्रिपुरघ्नोऽपि१ यं स्मृत्वा जघान त्रिपुरासुरान्॥
विना तु येन देवाश्च स्वेप्सितं नाप्नुवन्ति हि।
सर्वविघ्नविनाशाय चिद्गणेशं नमामि तम्॥
ग्रन्थकारटिप्पणी
१. मयदानवनिर्मितत्रिपुरभञ्जनप्रवृत्तो महादेवो यदा विजयं नालभत तदा स सर्वैर्देवैः सहितो विघ्नराजं गणेशमाराध्य विजयमवाप। महादेवस्य विजयेन देवा निर्भया अभवन्निति कथा पुराणेषु प्रसिद्धा।
नमस्काररूपमङ्गलं यथा –
असुराणां निहन्तारं त्रातारं सुरचेतसाम्।
रमाकान्तमुमाकान्तं नमाम्यनिशमद्वयम्॥
गुरोः स्ववाञ्छितप्रार्थनरूपमाशीर्वादमङ्गलम् –
यया शक्त्या देवदेवो जगत्सृष्ट्यादिकर्मकृत्।
सा मे तिष्ठतु वाक्पीठे ग्रन्थस्यास्य समाप्तये॥
शिष्यस्य स्ववाञ्छितप्रार्थनरूपमङ्गलम् –
संसारबन्धसंशान्त्या निजानन्दप्रकाशनात्।
निवर्तयतु जन्मादिदुःखं शिष्यस्य मे गुरुः॥