सामग्रीं त्यजन्तु

विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ३४५ – अगृधदेवस्य स्वप्न एव गुरुणा समागमः

आवर्तः ३४५ – अगृधदेवस्य स्वप्न एव गुरुणा समागमः

वारं वारमात्मनो जन्ममरणप्रवाहपातं श्रुत्वागृधदेव एवं विचारयति स्म (१) केनोपायेनाहमस्माद्वनान्निर्गच्छेयम्, (२) वनान्निर्गमनासिद्धावपि कथं मम चण्डालभावो६ दूरीभवेत्। सदा देवभावश्च७ सिद्ध्येत्। (३) वनान्निर्गन्तुं नान्य उपायोऽस्ति। ब्रह्मविद्योपदेष्टा आचार्य एव स्वशिष्यान् वनादस्मान्निस्तारयेदिति। एवं विचारयन्नेव सोऽगृधदेवः स्वप्न एव कञ्चन आचार्यवर्यम्८ अलभत। विधिवदुपसन्नाय तस्मै शिष्यायाचार्यो देववाणीमयं मिथ्याभूतवेदान्तग्रन्थमुपदिदेश।

ग्रन्थकारटिप्पणी

६. चण्डालभावः = जीवभावः।

७. देवभावः = ब्रह्मत्वम्।

८. आचिनोति हि शास्त्रार्थमाचारे स्थापयत्यपि।
स्वयमाचरते यस्मात् तस्मादाचार्य उच्यते॥

आम्नायतत्त्वविज्ञानात् चराचरसमत्वतः।
यमादियोगसिद्धत्वादाचार्य इति कथ्यते॥ इति वायुपुराणे।२२८