विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ३२६ – जाग्रत्स्वप्नयोर्ब्रह्माधिष्ठानकत्वे उभावपि व्यावहारिकौ स्याताम्।
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ३२६ – जाग्रत्स्वप्नयोर्ब्रह्माधिष्ठानकत्वे उभावपि व्यावहारिकौ स्याताम्।¶
यथा स्वप्नस्याधिष्ठानं ब्रह्म उपादानं चाविद्या। तथैव वेदान्तसिद्धान्ते जाग्रति व्यावहारिकपदार्थानामप्यधिष्ठानं ब्रह्म। उपादानं चाविद्यैव भवति। तत्र जाग्रत्पदार्था व्यावहारिका इति, स्वाप्नपदार्थाः प्रातिभासिका इति च कथ्यन्ते। एष भेदो न भवितुमर्हति। उभयोरप्यधिष्ठानं ब्रह्मैव भवति। उपादानं चाविद्यैव भवति। तस्माज्जाग्रत्स्वप्नयोरुभयोरपि व्यावहारिकता भवितुमर्हति। अथवोभयोः प्रातिभासिकता भवितुमर्हति। उभयोः सत्तावैषम्ये नास्त्युपपत्तिः।