विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ३१८ – स्वप्नदृष्टान्ते जाग्रत्पदार्थस्य मिथ्यात्वं न भवति इति तर्कदृष्टिः
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ३१८ – स्वप्नदृष्टान्ते जाग्रत्पदार्थस्य मिथ्यात्वं न भवति इति तर्कदृष्टिः¶
पूर्वमत्यन्तमज्ञातो यः पदार्थस्तस्य ज्ञानं स्वप्ने न भवति।
किन्तु जाग्रति यद्विषयकानुभवोऽभूत् तद्विषयकं स्मरणं२ स्वप्ने जायते। तथा
च स्मृतिविषयजाग्रत्पदार्थानां सत्यत्वात् स्वप्ने जायमानं तद्विषयकस्मृतिज्ञानमपि सत्यमेव। तस्मात् स्वप्नदृष्टान्तेन जाग्रत्पदार्थानां मिथ्यात्वकथनं न युज्यत एव।
ग्रन्थकारटिप्पणी
२. स्वप्नो जाग्रत्यनुभूतपदार्थविषयकस्मृतिरूपमानसविपर्यास इति कथयतां नैयायिकादीनां मतरीत्यायं प्रश्नः।