सामग्रीं त्यजन्तु

विचारसागरः — पञ्चमस्तरङ्गः — आवर्तः ३१२ – अहंग्रहध्यानादेव ब्रह्मलोकप्राप्तिरिति नियमः

आवर्तः ३१२ – अहंग्रहध्यानादेव ब्रह्मलोकप्राप्तिरिति नियमः

ओङ्काररूपब्रह्मोपासकस्य ब्रह्मलोकप्राप्तिद्वारा मोक्षलाभः फलं तथोपनिषत्सूक्तानामितरेषामपि ब्रह्मोपासनानामिदमेव फलम्। किन्तु अहङ्ग्रहोपासनं विनेतरोपासनेन न ब्रह्मलोकोऽवाप्यत इति सूत्रकारैर्भाष्यकारैश्च ब्रह्मसूत्रेषु भाष्यादिषु च चतुर्थाध्याये वर्णितम्।

नार्मदबाणानां शिवरूपेण, सालग्रामशिलानां विष्णुरूपेण च ध्यानं तु प्रतीकध्यानमेव। नाहङ्ग्रहध्यानम्। एवमेव "मनो ब्रह्मेत्युपासीत" (छा० ३।१८।१) "आदित्यो ब्रह्मेत्यादेशः" (छा० ३।१९।१) इत्यादिश्रुत्युक्तोपासनमपि प्रतीकध्यानमेव। नाहङ्ग्रहध्यानम्। तेषां तत्तत्प्रकरणे पृथक् फलश्रवणात्तैर्न ब्रह्मलोकोऽवाप्यते। सगुणस्याथवा निर्गुणस्य ब्रह्मणः स्वात्माभेदेन चिन्तनमहङ्ग्रहध्यानमित्युच्यते। तेनैव ध्यानेन ब्रह्मलोकोऽवाप्येत।