विचारसागरः — पञ्चमस्तरङ्गः — आवर्तः ३०७ – ओङ्कारोपासने परमहंसस्यैवाधिकारः
मुखपृष्ठम् · ⬆ पञ्चमस्तरङ्गः · ← · →
आवर्तः ३०७ – ओङ्कारोपासने परमहंसस्यैवाधिकारः¶
पूर्वोक्तरीत्या ओङ्कारस्वरूपं यो जानाति स मुनिः। मननान्मुनिरित्युच्यते। एवमोङ्कारस्य चिन्तनं मननरूपं भवति। यस्यैवमोङ्कारचिन्तनरूपमननं नास्ति न स मुनिः। इत्थं माण्डूक्योपनिषदुक्तरीत्या सङ्क्षेपेणोङ्कारचिन्तनं वर्णितम्। नृसिंहतापिन्याद्युपनिषत्स्वप्योङ्कारोपासनक्रमो वर्णितः (नृ० उ० ५)। इदं चोङ्कारचिन्तनं परमहंसानामेव गोप्यं धनम्। बहिर्मुखस्य नास्त्यत्राधिकारः। अत्यन्तान्तर्मुखस्यैवात्राधिकारः। गृहस्थानां नास्त्यत्राधिकारः। दारापत्यवित्तादिपरिग्रहरहितः परमहंस एवात्राधिकारी।