विचारसागरः — पञ्चमस्तरङ्गः — आवर्तः २९४ – प्रणवे अहंग्रहध्यानम्
मुखपृष्ठम् · ⬆ पञ्चमस्तरङ्गः · ← · →
आवर्तः २९४ – प्रणवे अहंग्रहध्यानम्¶
प्रकारान्तरेणाहङ्ग्रहध्यानमिदानीमुच्यते – प्रणवरूपे ओङ्कारे अहङ्ग्रहध्यानं माण्डूक्यादिश्रुत्यनुसारेण१ सुरेश्वराचार्यैः कथितम्। तदनुष्ठानमप्युचितं मोक्षकामस्य। तस्यैवं
क्रमः – प्रणवरूपमक्षरं ब्रह्मस्वरूपमेव। तादृशप्रणवस्वरूपं ब्रह्म अहमेव इति
नैरन्तर्येणानवरतं ध्यायेत्। नैतत्समं किञ्चिदपि ध्यानमस्ति। एतद्ध्यानस्य
विशेषक्रमः सुरेश्वराचार्यैः पञ्चीकरणाख्ये ग्रन्थे प्रतिपादितः। एतदुपासकोऽपारं संसारं तरति। अत्राधिकारी सन्न्यास्येव।
ग्रन्थकारटिप्पणी
१. माण्डूक्यशब्देन गौडपादकारिकापि ग्राह्या। आदिशब्देन कठप्रश्नाद्युपनिषदो गृह्यन्ते।