सामग्रीं त्यजन्तु

विचारसागरः — पञ्चमस्तरङ्गः — आवर्तः २६५ – जीवभोगार्थमीश्वरस्य जगत्सिसृक्षा

आवर्तः २६५ – जीवभोगार्थमीश्वरस्य जगत्सिसृक्षा

जीवकर्मफलप्रदानाद्यदेश्वरो विमुखो भवति तदा जगत्प्रलयो भवति। प्रलये सर्वपदार्थसंस्कारा मायायां लीना भवन्ति। तस्माज्जीवानां कर्मशेषोऽपि सूक्ष्मरूपेण मायायां निलीनो भवति। यदा प्राणिनां कर्मफलदानाभिमुखो भवतीश्वरस्तदा 'जीवानां भोगार्थमहं जगत् सृजे' इतीश्वरस्येच्छा जायते।