सामग्रीं त्यजन्तु

विचारसागरः — पञ्चमस्तरङ्गः — आवर्तः २५९ – अज्ञानस्य स्वाश्रयस्वविषयकत्वपक्षाङ्गीकारः

आवर्तः २५९ – अज्ञानस्य स्वाश्रयस्वविषयकत्वपक्षाङ्गीकारः

तदिदमेकमज्ञानं न जीवाश्रितम्, किन्तु शुद्धब्रह्माश्रितमेव। जीवभावश्चाज्ञानकार्यम्। तच्चाज्ञानं न कदाचिदपि स्वतन्त्रं तिष्ठति। तस्मान्निराश्रयाज्ञानेन न जीवभावः सिद्ध्येत्। यद्यज्ञानं प्रथमं यत्किञ्चिदाश्रयमाश्रित्य तिष्ठेत्तदा तत्कार्यजीवभावः सिद्ध्येत्। जीवभाव इवेश्वरभावोऽप्यज्ञानकार्यमेव। तस्मादज्ञानं नेश्वराश्रितमपि। परिशेषादिदमनाद्यज्ञानं शुद्धब्रह्माश्रितं भवति। अनादिचैतन्याज्ञानयोः संबन्धः (कालः) अप्यनादिरेव। चैतन्याज्ञानयोरनादिसंबन्धाधीनजीवेश्वरभावोऽप्यनादिरेव। परन्तु जीवेश्वरभावयोरज्ञानाधीनत्वात् जीवेश्वरयोः अज्ञानकार्यत्वव्यपदेशः।

'अहमज्ञः' इति जीवाश्रितत्वेन यद्यप्यज्ञानमापाततः प्रतीयते, तथापि शुद्धब्रह्माश्रितेऽज्ञाने जीवस्य योऽभिमानः स एवार्थोऽनेन वाक्येनाभिलप्यते इति परमार्थः। अज्ञानकार्यत्वाज्जीवस्य न तस्याज्ञानाधिष्ठानत्वरूपमाश्रयत्वं युज्यते। किन्तु शुद्धब्रह्मैवाज्ञानस्य अधिष्ठानरूपाश्रयः। 'अहमज्ञः' इति तु प्रतीतिर्जीवस्याज्ञानाभिमानित्वरूपमाश्रयत्वं विषयीकरोति।

शुद्धब्रह्मरूपाधिष्ठानाश्रितमज्ञानं स्वाश्रयं ब्रह्मैवावृणोति। तदनन्तरं जीवः 'अहमज्ञोऽस्मि' इत्येवमज्ञानस्य अभिमानिरूपाश्रयो१ भवति। अनेन प्रकारेणाज्ञानं स्वाश्रयविषयकमिति सिद्धम्।

ग्रन्थकारटिप्पणी

१. 'अहमज्ञः' इत्यनुभवबलादज्ञानस्याश्रयो जीव इति वाचस्पतिमिश्रा आहुः। अयं पक्षो मुमुक्षुबुद्धौ सुखं प्रविशेदिति तैस्तथा वर्णितम्। वस्तुतस्तेषामेवमाशयः अहंशब्दस्य वाच्यार्थोऽन्तःकरणविशिष्टचैतन्यरूपो जीवः। तत्र विशेष्यांशभूतसाक्षिचैतन्यमेव ब्रह्म। तच्च ब्रह्माज्ञानस्याश्रयः। विशेष्यधर्मस्य विशिष्टे व्यवहार इति न्यायेन जीवस्याज्ञानाश्रयत्वव्यपदेशः कृतः।