विचारसागरः — पञ्चमस्तरङ्गः — आवर्तः २४० – मृगयार्थं वनं गतो राजा भर्च्छुं दृष्ट्वा भीतः पलायते
मुखपृष्ठम् · ⬆ पञ्चमस्तरङ्गः · ← · →
आवर्तः २४० – मृगयार्थं वनं गतो राजा भर्च्छुं दृष्ट्वा भीतः पलायते¶
भर्च्छुस्थानापन्नो मन्त्री भर्च्छुवृत्तान्तं सर्वं श्रुत्वा स्वानुयायिभिः सहैवं समालोचयत् यदि राजा 'भर्च्छुर्जीवति' इति लोकवार्तां शृणोति, अथवा मृगयार्थं वनं गत्वा स्वयमेव भर्च्छुं पश्यति तदा मिथ्यावादिनोऽस्मान् स राजा सुतीक्ष्णं दण्डयेत् इति। एवमालोच्य सपरिवारो राजानमासाद्य 'दस्युभिर्युद्धे मृतो भर्च्छुः पिशाचो भूत्वा भस्मोद्धूलितसर्वाङ्गो वने सञ्चरति। स्वदृष्टिगोचरापन्नं सर्वं जनं मारयति। यस्तं दृष्ट्वा सुदूरं पलायते स जीवेत्' इति विज्ञापयामास। मन्त्रिवाक्यश्रवणमात्रेण राजा तत्त्वमविचारयन्, 'मृतो भर्च्छुः पिशाचः समभवत्' इति निश्चिकाय। ततः कदाचिदाखेटार्थं गतो भर्च्छुवनं प्रविवेश। तत्र तरुमूले तपश्चरन्तं भर्च्छुं दृष्ट्वा प्रतारकमन्त्रिवाक्यं स्मरन् 'नूनमयं भर्च्छुः पिशाचः' इति भयेन पलायितः।