विचारसागरः — पञ्चमस्तरङ्गः — आवर्तः २३५ – स्त्रीसङ्गाद्धननाशः
मुखपृष्ठम् · ⬆ पञ्चमस्तरङ्गः · ← · →
आवर्तः २३५ – स्त्रीसङ्गाद्धननाशः¶
स्त्रियां कामपराधीनः पुरुषः तस्याः विषयसंसृष्टमधुवदापातमधुरमालापं श्रुत्वा व्यामुग्धचित्तः कामान्धः स्वप्नेऽपि तामेव स्मरन्निरुद्यमो न धनाद्यर्जनाय यतते। गृहे वा बहिर्वा यद्धनाभरणवस्त्रादिकं लभ्यते तत्सर्वं स्वेष्टदेवतायै भार्यायै समर्पयति भक्तिपूर्वकम्। सन्मार्गप्रदर्शकमातापितृगुर्वादीन् न मनसापि स्मरति। स्त्रीरूपः कर्षकः पुरुषरूपं लुलायं मोहमय्या नासारज्ज्वा सुदृढं बद्ध्वाकृष्येतस्ततश्चालयति।