सामग्रीं त्यजन्तु

विचारसागरः — पञ्चमस्तरङ्गः — आवर्तः २३३ – एकान्तसेविनः सार्वभौमादिब्रह्मपर्यन्तानन्दलाभः

आवर्तः २३३ – एकान्तसेविनः सार्वभौमादिब्रह्मपर्यन्तानन्दलाभः

तथा हि, उदधिमेखलाया वसुधाया अधिपस्याप्रतिहतपराक्रमस्य नताखिलसामन्तस्य नवयौवनस्य सर्वविद्याविशारदस्यानुकूलसकलपरिवारस्य सार्वभौमस्यानन्दो मानुषानन्द इत्युच्यते। सोऽप्यानन्दः सातिशय एव। ततः शतगुणितानन्दो मनुष्यगन्धर्वस्य१। ततोऽपि शतगुणानन्दो देवगन्धर्वस्य२। ततोऽपि शतगुणानन्दः पितॄणाम्३। ततः शतगुणानन्द आजानदेवस्य४। ततः शतगुणानन्दः कर्मदेवस्य५। ततः शतगुणानन्दो मुख्यदेवस्य६। ततः शतगुणानन्द इन्द्रस्य। ततः शतगुणानन्दो बृहस्पतेः। ततः शतगुणानन्दः प्रजापतेः। ततः शतगुणानन्दो हिरण्यगर्भस्य ब्रह्मणः। त्रिविधपरिच्छेदरहितस्य ब्रह्मणस्त्वानन्दो निरतिशयस्तारतम्यरहितः। न तत्र दुःखलेशोऽप्यस्ति। इत्थं प्राप्तव्यस्यानन्दस्य क्रमस्तैत्तिरीयोपनिषदि ब्रह्मवल्ल्यामष्टमानुवाके वर्णितः। सार्वभौमादिब्रह्मान्तमानन्दमेकान्तवासी अकामहतः श्रोत्रियोऽनवरतमनुभवति। अत एकान्ते सुखमस्ति। दारापत्यधनासङ्गस्तु सदा दुःखप्रद एवेति भर्च्छुर्निर्धारयामास।

ग्रन्थकारटिप्पणी

१. अस्मिन्नेव कल्पे मनुष्यो भूत्वा पुण्यविशेषाद्गन्धर्वत्वं यः प्राप्तः स मनुष्यगन्धर्वः।

२. पूर्वकल्पानुष्ठितधर्माधिक्यादस्मिन् कल्पादावेव गन्धर्वत्वं यः प्राप्तः स देवगन्धर्वः।

३. पितृलोकेषु चिरकालं ये वसन्ति, अग्निष्वात्तादयस्ते पितरः।

४. कल्पारम्भ एव ये देवत्वं प्राप्तास्ते आजानदेवाः।

५. अस्मिन् कल्पे अश्वमेधादिक्रत्वनुष्ठानेन प्राप्तानन्तैश्वर्या आजानदेवैरुपास्यमाना ये ते कर्मदेवाः।

६. यमाग्निवायुसूर्यचन्द्रादिप्रधानदेवा मुख्यदेवाः। केचित्तु यमादिहिरण्यगर्भान्तदेवान्, अष्टौ वसून्, द्वादशादित्यान्, एकादश रुद्रानित्येवमेकत्रिंशद्देवांश्च मुख्यदेवान् आहुः।