विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः २२२ – ब्रह्म न रसनाघ्राणश्रोत्राणां विषयः
मुखपृष्ठम् · ⬆ चतुर्थस्तरङ्गः · ← · →
आवर्तः २२२ – ब्रह्म न रसनाघ्राणश्रोत्राणां विषयः¶
रसनेन्द्रियेण रसज्ञानम्, घ्राणेन्द्रियेण गन्धज्ञानम्, श्रोत्रेन्द्रियेण शब्दज्ञानं च जायते। रसगन्धशब्देभ्यो विलक्षणं ब्रह्म। तस्मान्न रसनाघ्राणश्रोत्रैर्ब्रह्मणो ज्ञानं जायते। "अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्" (क० १।३।१५) "पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्" (क० २।१।१) इत्यादिना ब्रह्मण इन्द्रियाविषयत्वं बोध्यते।