सामग्रीं त्यजन्तु

विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः २१९ – तत्त्वदृष्टेः शङ्का

आवर्तः २१९ – तत्त्वदृष्टेः शङ्का

'ब्रह्मापरोक्षज्ञानेन सकलाविद्यासमूहो नश्यति, न तु परोक्षज्ञानेन' इति प्रागभिहितम्। अत्रैषा शङ्का भवति – 'इन्द्रियजन्यमेव ज्ञानं प्रत्यक्षमित्युच्यते, ब्रह्मज्ञानं तु नेन्द्रियजन्यमविषयत्वाद्ब्रह्मणः। "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" (तै० ब्र० ४।९) इत्यादिश्रुतेः।