विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः २१० – प्रमाणप्रमयोर्लक्षणम्
मुखपृष्ठम् · ⬆ चतुर्थस्तरङ्गः · ← · →
आवर्तः २१० – प्रमाणप्रमयोर्लक्षणम्¶
प्रमारूपज्ञानकरणम् प्रमाणम्।
स्मृतिभिन्नत्वे सत्यबाधितार्थविषयकं ज्ञानं प्रमा। स्मृतिरूपं ज्ञानं न प्रमा।
प्रमाज्ञानं हि प्रमातारमाश्रयति, स्मृतिस्तु न प्रमातारमाश्रिता; किन्तु
साक्षिणमाश्रितेत्यभ्युपगम्यते। तथैव भ्रान्तिज्ञानसंशयज्ञाने च साक्ष्याश्रिते
इत्यङ्गीकृतम्। अत एव स्मृतिर्भ्रान्तिः संशयश्चेत्येतत्त्रयमपि चिदाभाससहिताविद्याया वृत्तिरूपम्, नान्तःकरणस्य वृत्तिरूपम्। ततश्च तत्त्रयमपि न प्रमात्राश्रयं किन्तु साक्ष्याश्रयम्। यदेवान्तःकरणस्य वृत्तिरूपं ज्ञानं तदेव प्रमातारमाश्रयति। अन्तःकरणवृत्तिरूपं ज्ञानमेव प्रमेत्युच्यते। अन्तःकरणवृत्तिरूपत्वाभावादेव न स्मृतिः प्रमातारमाश्रयति; प्रमापि न सा भवति।
अत एव
स्मृतिभिन्नत्वं प्रमालक्षणे देयम्। स्मृतेरबाधितार्थविषयज्ञानत्वेऽपि न
स्मृतिभिन्नत्वम्। तस्मादबाधितार्थविषयकं स्मृतिभिन्नमेव ज्ञानं प्रमा१ इत्युच्यते।
नास्मिन् लक्षणे दोषगन्धोऽप्यस्ति।
ग्रन्थकारटिप्पणी
१. यथार्थानुभवः प्रमेति स्मृतिव्यावृत्तं प्रमालक्षणम्। यथार्थज्ञानं प्रमेति प्रमालक्षणं तु स्मृतिसाधारणमिति विवेकः।