सामग्रीं त्यजन्तु

विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः २०८ – अर्थापत्तिप्रमाणम्

आवर्तः २०८ – अर्थापत्तिप्रमाणम्

पूर्वमीमांसकैकदेशी भट्टशिष्यः प्रभाकरः पञ्चमीम् अर्थापत्तिमपि प्रमाणत्वेनाभ्युपगच्छति। दिवा अभुञ्जानस्य पुरुषस्य पीनत्वं दृष्ट्वा 'अयं रात्रौ भुङ्क्ते' इति निश्चयो जायते; रात्रिभोजनमन्तरा दिवा अभुञ्जानस्य पीनत्वानुपपत्तेः। भोजनं पीनत्वहेतुरित्यतः पीनत्वं रात्रिभोजनस्य कार्यम्। रात्रिभोजनं पीनत्वस्य कारणम्। तत्र पीनत्वमुपपाद्यम्, रात्रिभोजनमुपपादकम्। तथा चोपपादकरात्रिभोजनस्य ज्ञानं प्रति कारणभूतपीनत्वरूपोपपाद्यज्ञानम् अर्थापत्तिप्रमाणम् इत्युच्यते।